|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.157. अध्यायः 157
Mahabharata - Drona Parva - Chapter Topics
सात्यकिना सोमदत्तपराजयः॥ 1 ॥ अश्वत्थामघटोत्कचयुद्धमश्वत्थामपराक्रमश्च॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-157-0x(4681)(51905)
प्रायोपविष्टे तु हते पुत्रे सात्यकिना तदा।
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत्॥ 7-157-1(51906)
क्षत्रधर्मः परो दृष्टो यस्तु देवैर्महात्मभिः।
तं त्वं सात्वत सन्तज्य दस्युधर्मे कथं रतः॥ 7-157-2(51907)
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते।
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे॥ 7-157-3(51908)
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ।
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत॥ 7-157-4(51909)
कथं प्रायोपविष्टाय पार्थेन च्छिन्नबाहवे।
नृशंसं बत दीनं च तादृशं कृतवानसि॥ 7-157-5(51910)
कर्ममस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे।
अद्य छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा॥ 7-157-6(51911)
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च।
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम्॥ 7-157-7(51912)
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम्।
न हन्यां नरके घोरे पतेयं वृष्णिपांसन॥ 7-157-8(51913)
एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः।
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च॥ 7-157-9(51914)
ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः।
सात्यकिर्भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत्॥ 7-157-10(51915)
कौरवेय न मे त्रासः कथञ्चिदपि विद्यते।
त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन॥ 7-157-11(51916)
यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि।
तथापि न व्यथा काचित्त्वयि स्यान्मम कौरव॥ 7-157-12(51917)
युद्धसारेण वाक्येन असतां सम्मतेन च।
नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया॥ 7-157-13(51918)
यदि तेऽस्ति युयुत्साऽद्य मया सह नराधिप।
निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते॥ 7-157-14(51919)
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः।
शलश्चैव महाराज भ्रातृव्यसनकर्षितः॥ 7-157-15(51920)
त्वां चाप्यद्य वधिष्यामि सहपुत्रं सबान्धवम्।
तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः॥ 7-157-16(51921)
यस्मिन्दानं दमः शौचमहिंसा हीर्धृतिः क्षमा।
अनपायानि सर्वाणि नित्यं राज्ञि युधिष्ठिरे॥ 7-157-17(51922)
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा।
सकर्णसौबलः सङ्ख्ये विनाशमुपयास्यसि॥ 7-157-18(51923)
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह।
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः॥ 7-157-19(51924)
अपयास्यसि चोत्त्यक्त्वा रणं मुक्तो भविष्यसि॥ 7-157-20(51925)
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ।
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ॥ 7-157-21(51926)
ततो रथसहस्रेण नागानामयुतेन च।
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः॥ 7-157-22(51927)
शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः।
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः।
श्यालस्तव महाबाहुर्वज्रसंहननो युवा॥ 7-157-23(51928)
साग्रं शतसहस्रं तु हयानां तस्य धीमतः।
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत॥ 7-157-24(51929)
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम्।
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः॥ 7-157-25(51930)
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम्।
`अभ्यरक्षन्महाबाहुः सात्वतं सत्यविक्रमम्'॥ 7-157-26(51931)
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः।
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम्॥ 7-157-27(51932)
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः।
सात्यकिर्नवभिश्चैनमवधीत्कुरुपुङ्गवम्॥ 7-157-28(51933)
सोऽतिविद्धो बलवता समरे दृढधन्विना।
रथोपस्थं समासाद्य मुमोह गतचेतनः॥ 7-157-29(51934)
तं विमूढं समालक्ष्य सारथिस्त्वरयाऽन्वितः।
अपोवाह रणाद्वीरं सोमदत्तं महारथम्॥ 7-157-30(51935)
तं विसंज्ञं समालक्ष्य युयुधानशरार्दितम्।
अभ्यद्रवत्ततो द्रोणो यदुवीरजिघांसया॥ 7-157-31(51936)
तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः।
परिवव्रुर्महात्मानं परीप्सन्तो यदूत्तमम्॥ 7-157-32(51937)
ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः।
बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया॥ 7-157-33(51938)
ततः सायकजालेन पाण्डवानीकमावृणोत्।
भारद्वाजो महातेजा विव्याध च युधिष्ठिरम्॥ 7-157-34(51939)
सात्यकिं दशभिर्बाणैर्विंशत्या पार्षतं शरैः।
भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा॥ 7-157-35(51940)
सहदेवं तथाऽष्टाभिः शतेन च शिखण्डिनम्।
द्रौपदेयान्महाबाहुः पञ्चभिः पञ्जभिः शरैः॥ 7-157-36(51941)
विराटं मत्स्यमष्टाभिर्द्रुपदं दशभिः शरैः।
युधामन्युं त्रिभिः षड्भिरुत्तमौजसमाहवे।
अन्यांश्च सैनिकान्विद्व्वा युधिष्ठिरमुपाद्रवत्॥ 7-157-37(51942)
ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः।
प्राद्रवन्वै भयाद्राजन्सार्तनादा दिशो दश॥ 7-157-38(51943)
काल्यमानं तु तत्सैन्यं दृष्ट्वा द्रोणेन फल्गुनः।
किञ्चिदागतसंरम्भो गुरुं पार्थोऽभ्ययाद्द्रुतम्॥ 7-157-39(51944)
दृष्ट्वा द्रोणं तु बीभत्सुमभिधावन्तमाहवे।
सन्न्यवर्तत तत्सैन्यं पुनर्यौधिष्ठिरं बलम्॥ 7-157-40(51945)
ततो युद्धमभूद्भूयो भारद्वाजस्य पाण्डवैः॥ 7-157-41(51946)
द्रोणस्तव सुतै राजन्सर्वतः परिवारितः।
व्यधमत्पाण्डुसैन्यानि तूलराशिमिवानलः॥ 7-157-42(51947)
तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम्।
राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम्॥ 7-157-43(51948)
मण्डलीकृतधन्वानं तपन्तमिव भास्करम्।
दहन्तमहितान्सैन्ये नैनं कश्चिदवारयत्॥ 7-157-44(51949)
योयो हि प्रमुखे तस्य तस्थौ द्रोणस्य पुरूषः।
तस्यतस्य शिरश्छित्त्वा ययुर्द्रोणशराः क्षितिम्॥ 7-157-45(51950)
एवं सा पाण्डवी सेना वध्यमाना महात्मना।
प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः॥ 7-157-46(51951)
सम्प्रभग्नं बलं दृष्ट्वा द्रोणेन निशि भारत।
गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति॥ 7-157-47(51952)
ततो रजतगोक्षीरकुन्देन्दुसदृशप्रभान्।
चोदयामास दाशार्हो हयान्द्रोणरथं प्रति॥ 7-157-48(51953)
भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणाय फल्गुनम्।
स्वसारथिमुवाचेदं द्रोणानीकाय मां वह॥ 7-157-49(51954)
सोऽपि तस्य वचः श्रुत्वा विशोकोऽवहयद्वयान्।
पृष्ठतः सत्यसन्धस्य जिष्णोर्भरतसत्तम॥ 7-157-50(51955)
तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ।
पाञ्चालाः सृञ्जया मात्स्याश्चेदिकारूशकोसलाः।
अन्वगच्छन्महाराज केकयाश्च महारथाः॥ 7-157-51(51956)
ततो राजन्नभूद्वोरः सङ्ग्रामो रोमहर्षणः॥ 7-157-52(51957)
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः।
महद्भ्यां रथबृन्दाभ्यां बलं जगृहतुस्तव॥ 7-157-53(51958)
तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनञ्जयौ।
धृष्टद्युम्नोऽभ्ययाद्राजन्सात्यकिश्च महाबलः॥ 7-157-54(51959)
चण्डवाताभिपन्नानामुदधीनामिव स्वनः।
आसीद्राजन्बलौघानां तदाऽन्योन्यमभिघ्नतां 7-157-55(51960)
सौमदत्तिवधात्क्रुद्धो दृष्ट्वा सात्यकिमाहवे।
द्रौणिरभ्यद्रवद्राजन्वधाय कृतनिश्चयः॥ 7-157-56(51961)
तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति।
भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत्॥ 7-157-57(51962)
कार्ष्णायसं महाघोरमृक्षचर्मपरिच्छदम्।
महान्तं रथमास्थाय त्रिंशन्नल्वान्तरान्तरम्॥ 7-157-58(51963)
विक्षिप्तयन्त्रसन्नाहं महामेघौघनिःस्वनम्।
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः॥ 7-157-59(51964)
विक्षिप्तपक्षचरणविवृताक्षेण कूजता।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम्॥ 7-157-60(51965)
लोहितार्द्रपताकं तु आन्त्रमालाविभूषितम्।
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम्॥ 7-157-61(51966)
शूलमुद्गरधारिण्या शैलपादपहस्तया।
रक्षसां घोररूपाणामक्षौहिण्या समावृतः॥ 7-157-62(51967)
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः।
युगान्तकालसमये दण्डहस्तमिवान्तकम्॥ 7-157-63(51968)
ततस्तं गिरिशृङ्गाभं भीमरूपं भयावहम्।
दंष्ट्राकरालोग्रमुखं शङ्कुकर्णं महाहनुम्॥ 7-157-64(51969)
ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम्।
महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम्॥ 7-157-65(51970)
त्रासनं सर्वभूतानां व्यात्ताननभिवान्तकम्।
वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम्॥ 7-157-66(51971)
तमुद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम्।
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी।
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी॥ 7-157-67(51972)
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः।
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्॥ 7-157-68(51973)
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः।
सन्ध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ॥ 7-157-69(51974)
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः।
पतन्त्यविरताः शूलाः शतघ्न्यः पट्टसास्तथा॥ 7-157-70(51975)
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः।
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः॥ 7-157-71(51976)
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे।
व्यधमच्च शरैर्मायां घटोत्कचविनिर्भिताम्॥ 7-157-72(51977)
विहतायां तु मायायाममर्षी स घटोत्कचः।
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन्।
भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः॥ 7-157-73(51978)
ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम्।
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः॥ 7-157-74(51979)
अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान्।
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः॥ 7-157-75(51980)
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु।
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम्॥ 7-157-76(51981)
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम्।
अश्वत्थाम्नि स चिक्षेप भैमसेनिर्जिघांसया॥ 7-157-77(51982)
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि॥ 7-157-78(51983)
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम्।
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्॥ 7-157-79(51984)
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः।
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट्॥ 7-157-80(51985)
पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा।
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः॥ 7-157-81(51986)
अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः।
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः॥ 7-157-82(51987)
द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम्।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्॥ 7-157-83(51988)
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम्।
विशिखेन सतीक्ष्णेन खङ्गमस्य द्विधाऽकरोत्॥ 7-157-84(51989)
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बिसूनुना।
भ्राम्योत्क्षिप्ताशरैःसापि द्रौणिनाभ्याहताऽपतत्॥ 7-157-85(51990)
ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन्।
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात्॥ 7-157-86(51991)
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि।
मार्गणैरभिविव्याध धनं सूर्य इवांशुभिः॥ 7-157-87(51992)
सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते।
महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः॥ 7-157-88(51993)
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम्।
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम्॥ 7-157-89(51994)
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम्।
द्रौणेः सकाशमभ्येत्य रोषात्प्रस्फुरिताधरः॥ 7-157-90(51995)
प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम्।
दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम्॥ 7-157-91(51996)
घटोत्कच उवाच। 7-157-92x(4682)
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि।
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा॥ 7-157-92(51997)
अश्वत्थामोवाच। 7-157-93x(4683)
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम।
न हि पुत्रेण हैडिम्ब पिता न्याय्यः प्रबाधितुम्॥ 7-157-93(51998)
कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि।
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत॥ 7-157-94(51999)
सञ्जय उवाच। 7-157-95x(4684)
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः।
अश्वत्थामानमायस्तो भैमसेनिरभाषत॥ 7-157-95(52000)
किमहं कातरो द्रौणे पृथग्जन इवाहवे॥
यन्मां भीषयसे वाग्भिरसदेतद्वचस्तव॥ 7-157-96(52001)
भीमात्खलु समुत्पन्नः कुरूणां विपुले कुले।
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम्॥ 7-157-97(52002)
रक्षसामधिराजोऽहं दशग्रीवसमो बले।
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि॥ 7-157-98(52003)
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे॥ 7-157-99(52004)
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः सुमहाबलः।
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी॥ 7-157-100(52005)
रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः॥ 7-157-101(52006)
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत्।
ततोन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत्॥ 7-157-102(52007)
अथास्त्रसम्मर्दकृतैर्विस्फुलिङ्गैस्तदा बभौ।
विभावरीमुखे व्योम खद्योतैरिव चित्रितम्॥ 7-157-103(52008)
निशाम्य निहतां मायां द्रौणिना रणमानिना।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः॥ 7-157-104(52009)
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः।
शूलप्रासासिमुसलजलप्रस्रवणो महान्॥ 7-157-105(52010)
तमञ्जनगिरिप्रख्यं द्रौणिर्दृष्ट्वा महीधरम्।
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न विव्यथे॥ 7-157-106(52011)
ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत्।
स ते नास्त्रैण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत॥ 7-157-107(52012)
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि।
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे॥ 7-157-108(52013)
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः।
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम्॥ 7-157-109(52014)
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः।
शतं रथसहस्राणां जघान द्विपदां वरः॥ 7-157-110(52015)
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम्।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्॥ 7-157-111(52016)
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि॥ 7-157-112(52017)
विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह।
पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः॥ 7-157-113(52018)
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः।
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः॥ 7-157-114(52019)
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः।
विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत्॥ 7-157-115(52020)
तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया।
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः॥ 7-157-116(52021)
निहनिष्याम्यमित्रांस्त न तवास्ति पराजयः।
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम्॥ 7-157-117(52022)
दुर्योधन उवाच 7-157-118x(4685)
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः।
अस्मासु च परा भक्तिस्तव गौतमिनन्दन॥ 7-157-118(52023)
सञ्जय उवाच। 7-157-119x(4686)
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत्।
वृतं रथसहस्रेण हयानां रणशोभिनाम्॥ 7-157-119(52024)
षष्ट्या रथसहस्रैश्च प्रयाहि त्वं धनञ्जयम्।
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च॥ 7-157-120(52025)
उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः।
दुःशासनो निकुम्भश्च कुण्डभेदी पराक्रमः॥ 7-157-121(52026)
पूरञ्जयो दृढरथः पताकी हेमकम्पनः।
शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः॥ 7-157-122(52027)
कमलाक्षः परक्राथी जयवर्मा सुदर्शनः।
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्॥ 7-157-123(52028)
जहि भीमं यमौ चोभौ धर्मराजं च मातुल।
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता॥ 7-157-124(52029)
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान्।
जहि मातुल कौन्तेयानसुरानिव पावकिः॥ 7-157-125(52030)
सञ्जय उवाच। 7-157-126x(4687)
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः।
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान्॥ 7-157-126(52031)
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे।
विभावर्यां सुतुमुलं शक्रप्रह्लादयोरिव॥ 7-157-127(52032)
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम्।
जघानोरसि सङ्क्रुद्धौ विषाग्निप्रतिमैर्दृढैः॥ 7-157-128(52033)
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः।
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः॥ 7-157-129(52034)
भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम्।
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः॥ 7-157-130(52035)
ततोऽन्यद्द्रौणिरादय धनुर्भारसहं महत्।
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः॥ 7-157-131(52036)
ततः शारद्वतीपुत्रः प्रेषयामास भारत।
सुवर्णपुङ्खाञ्छत्रुघ्नान्खचरान्खचरं प्रति॥ 7-157-132(52037)
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्॥ 7-157-133(52038)
विधम्य राक्षसान्बाणैः साश्वसूतरथद्विपान्।
ददाह भगवान्वह्निर्भूतानीव युगक्षये॥ 7-157-134(52039)
स दग्ध्वाऽक्षौहिणीं बामैर्नैर्ऋतीं रुरुचे नृप।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः॥ 7-157-135(52040)
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः।
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान्॥ 7-157-136(52041)
ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम्।
द्रौणिं हतेति महतीं चोदयामास तां चमूम्॥ 7-157-137(52042)
घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः।
दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः॥ 7-157-138(52043)
व्यात्तानना घोरजिह्वाः क्रोधताम्रेक्षणा भृशम्।
सिंहनादेन महता नादयन्तो वसुन्धराम्॥ 7-157-139(52044)
हन्तुमभ्यद्रवन्द्रौणिं नानाप्रहरणायुधाः।
शक्तीः शतघ्नीः परिघानशनीः शूलपट्टशान्॥ 7-157-140(52045)
खङ्गान्गदाभिण्डिपालान्मुसलानि परश्वथान्।
प्रासानसींस्तोमरांश्च कणपान्कम्पनाञ्छितान्॥ 7-157-141(52046)
स्थूलान्भुशुण्ड्यश्मगदास्थूणान्कार्ष्ण्यायसांस्तथा।
मुद्गराँश्च महाघोरान्समरे शत्रुदारणान्॥ 7-157-142(52047)
द्रौणिमूर्धन्यसन्त्रस्ता राक्षसा भीमविक्रमाः।
चिक्षिपुः क्रोधताम्राक्षाः शतशोऽथ सहस्रशः॥ 7-157-143(52048)
तच्छस्त्रवर्षं सुमहद्द्रोणपुत्रस्य मूर्धनि।
पतमानं समीक्ष्याऽथ योधास्ते व्यथिताऽभवन्॥ 7-157-144(52049)
द्रोणपुत्रस्तु विक्रान्तस्तद्वर्षं घोरमुच्छ्रितम्।
शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः॥ 7-157-145(52050)
ततोऽन्यैर्विशिखैस्तूर्णं स्वर्णपुङ्खैर्महामनाः।
निजघ्ने राक्षसान्द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः॥ 7-157-146(52051)
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्॥ 7-157-147(52052)
ते राक्षसाः सुसङ्क्रुद्धा द्रोणपुत्रेण ताडिताः।
क्रुद्धाः स्म प्राद्रवन्द्रौणिं जिघांसन्तो महाबलः॥ 7-157-148(52053)
तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम्।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत॥ 7-157-149(52054)
यदेको राक्षसीं सेनां क्षणाद्द्रौणिर्महास्त्रवित्।
ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः॥ 7-157-150(52055)
स हत्वा राक्षसानीकं रराज द्रौणिराहवे।
युगान्ते सर्वभूतानि संवर्तक इवानलः॥ 7-157-151(52056)
तं दहन्तमनीकानि शरैराशीविषोपमैः।
तेषु राजसहस्रेषु पाण्डवेयेषु भारत॥ 7-157-152(52057)
नैनं निरीक्षितुं कश्चिदशक्नोद्द्रौणिमाहवे।
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात्॥ 7-157-153(52058)
स पुनर्भरतश्रेष्ठ क्रोधादुद्धान्तलोचनः।
तलं तलेन संहत्य सन्दश्य दशनच्छदम्॥ 7-157-154(52059)
स्व सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह।
स ययौ घोररूपेण सुपताकेन भास्वता॥ 7-157-155(52060)
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः।
स विनद्य महानादं सिंहवद्भीमविक्रमः॥ 7-157-156(52061)
चिक्षेपाविद्ध्य सङ्ग्रामे द्रोणपुत्राय राक्षसः।
अष्टघण्टां महाघोरामशनिं देवनिर्मिताम्॥ 7-157-157(52062)
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवप्लुप्लुवे॥ 7-157-158(52063)
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा।
विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा॥ 7-157-159(52064)
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन्।
यदप्लुत्य जग्राह घोरां शङ्करनिर्मिताम्॥ 7-157-160(52065)
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप।
धनुर्घोरं समादाय महदिन्द्रायुधोपमम्।
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि॥ 7-157-161(52066)
धृष्टद्युम्नस्त्वसम्भ्रान्तो मुमोचाशीविषोपमान्।
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि॥ 7-157-162(52067)
ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः।
तावप्यग्निशिखप्रख्यैर्जुघ्नतुस्तस्य मार्गणान्॥ 7-157-163(52068)
अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः।
योधानं प्रीतिजननं द्रौणेश्च भरतर्षभ॥ 7-157-164(52069)
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः।
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमागमत्॥ 7-157-165(52070)
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम्।
अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः॥ 7-157-166(52071)
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम्।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत॥ 7-157-167(52072)
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम्।
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत्॥ 7-157-168(52073)
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च।
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च॥ 7-157-169(52074)
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः।
निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः॥ 7-157-170(52075)
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः।
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः॥ 7-157-171(52076)
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ।
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये॥ 7-157-172(52077)
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम्॥
छत्रहंसावलीजुष्टां फेनचामरमालिनीम्॥ 7-157-173(52078)
कङ्कगृघ्रमहाग्राहां नैकायुधझषाकुलाम्।
विस्तीर्णगजपाषाणां हताश्वमकराकुलाम्॥ 7-157-174(52079)
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम्।
शरमीनां महारौद्रां प्रासशक्त्यृष्टिडुण्डुभाम्॥ 7-157-175(52080)
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम्।
केशशैवलकल्माषां भीरूणां कश्मलावहाम्॥ 7-157-176(52081)
नागेन्द्रहययोधानां शरीरव्ययसम्भवाम्।
शोणितौघमहाघोरां द्रौणिः प्रावर्तयन्नदीम्॥ 7-157-177(52082)
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम्।
प्रयान्तीं सुमहाघोरां यमराष्ट्रमहोदधिम्॥ 7-157-178(52083)
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बिमार्दयत्।
पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान्॥ 7-157-179(52084)
स नाराचगणैः पार्थान्द्रौणिर्विद्धा महाबलः।
जघान सुरथं नाम द्रुपदस्य सुतं विभुः॥ 7-157-180(52085)
पुनः शत्रुञ्जयं नाम द्रुपदस्यात्मजं रणे।
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान्॥ 7-157-181(52086)
श्रुताह्वयं च राजानं द्रौणिर्निन्ये यमक्षयम्।
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खैर्हेममालिनम्॥ 7-157-182(52087)
जघान स पृषध्रं च चन्द्रसेनं च मारिष।
कुन्तिभोजसुतांश्चासौ दशभिर्दश जघ्निवान्॥ 7-157-183(52088)
अस्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम्।
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्॥ 7-157-184(52089)
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः।
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते॥ 7-157-185(52090)
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः।
द्रौणेः सकाशाद्राजेन्द्र व्यपनिन्ये रथोत्तमम्॥ 7-157-186(52091)
ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप।
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह।
पूजितः सर्वभूतेषु तव पुत्रैश्च भारत॥ 7-157-187(52092)
अथ शरशतभिन्नकृत्तदेहै--
र्हतपतितैः क्षणदाचरैः समन्तात्।
निधनमुपगतैर्मही कृताऽभू--
द्गिरिशिखरैरिव दुर्गमाऽतिरौद्रा॥ 7-157-188(52093)
तं सिद्धगन्धर्वपिशाचसङ्घा
नागाः सुपर्णाः पितरो वयांसि।
रक्षोगणा भूतगणाश्च द्रौणि--
मपूजयन्नप्सरसः सुराश्च॥ ॥ 7-157-189(52094)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तपञ्चाशदधिकशततमोऽध्यायः॥ 157 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-157-9 तारेणोच्चस्वरेण॥ 5-157-19 कृष्णचरणैः कृष्णयोश्चरणैः॥ 5-157-40 द्रोणमभिधावन्तं बीभत्सुं दृष्ट्वा यौधिष्ठिरं बलं तत्सैन्यं द्रोणसैन्यम्प्रति पुनः सन्न्यवर्ततेति सम्बन्धः॥ 5-157-58 कार्ष्णायसं तीक्ष्णलोहमयम्॥ 5-157-59 न हयैर्नापि वारणैर्गजैः किन्तु पिशाचैः॥ 5-157-93 गच्छ वत्सेति पुत्रेणेति च भीमसेनसम्बन्धात्। प्रबाधितुं मनः--खेदमुत्पादयितुम्॥ 5-157-94 आत्मानमपि हन्यात्किमु पुत्रमतो जीवनार्थी त्वं निवर्तस्वेति भावः॥ 5-157-95 आयस्तः कोपितः॥ 5-157-132 शारद्वती कृपी। कचरान्बाणान्। खचरं राक्षसम्॥ 5-157-136 वसुरुल्बणः अग्निः प्रलयकालिकः॥ 5-157-157 सप्तपञ्चाशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|